Class VII NCERT Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति

दुर्बुद्धिः विनश्यति

अस्ति मगधदेशे फुल्लोत्पलनामसरः। तत्र संकटविकटौ हंसौ निवसतः। कम्बुग्रीवनामकः तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन् – “ वयं श्वः मत्स्यकूर्मादीन्  मारिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत् –“मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता? अधुना किं अहं करोमि ?” हंसौ अवदताम् – “ प्रातः यद् उचितं तत्कर्तव्यम्।” कूर्मः अवदत् –“मैवम् तद् यथाहं अन्यं हृदं गच्छामि तथा कुरुतम्।”हंसौ अवदताम्- “ आवां किं करवाव?” कूर्मः अवदत्- “अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”हंसौ अवदताम् “अत्र कः उपायः?” कच्छपः वदति – “युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम् अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।” हंसौ अकथयताम् – “सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।” तत् श्रुत्वा क्रुद्धः कूर्मः अवदत् – “किमहं मूर्खः? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।” अतः अहं यथा वदामि तथा युवां कुरुतम्।  एवं काष्ठदण्ड लम्बमानं कूर्मं पौराः अपश्यन्। पश्चाद् अधावन् अवदन्- “हंहो! महदाश्चर्यं हंसाभ्यां सह कूर्मोऽपि उड्डीयते।” कश्चिद् वदति- “यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।” अपरः अवदत्– “सरस्तीरे दग्ध्वा खादिष्यामि।” अन्यः अकथयत् – “गृहं नीत्वा भक्षयिष्यामि।” इति तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत् –“यूयं भस्म खादत।” तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरेः सः मारितः। अत एवोक्तं –

सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।

स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति।।

 उच्चारणं कुरुत –

फुल्लोत्पलम्

अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् हृदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः
एकपदेन उत्तरत

(क) कूर्मस्य किं नाम आसीत्?

उत्तरम् – कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन्?

उत्तरम् – धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

उत्तरम् – आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

उत्तरम् – पौराः

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत 
कः कथयति कं प्रति कथयति
यथा- प्रात: यद् उचितं तत्कर्त्तव्यम्।    हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
(ख) अत्र कः उपाय:?
(ग) अहम् उत्तरं न दास्यामि।
(घ) यूयं भस्म खादत।

 उत्तरम्-

कः कथयति कं प्रति कथयति
यथा- प्रात: यद् उचितं तत्कर्त्तव्यम्। हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि। कूर्मः हंसौ प्रति
(ख) अत्र कः उपाय:? हंसौ कूर्मं प्रति
(ग) अहम् उत्तरं न दास्यामि। कूर्मः हंसौ प्रति
(घ) यूयं भस्म खादत। कूर्मः पौरान् प्रति
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत
अभिनन्दति भक्षयिष्यामः इच्छामि वदिष्यामि उड्डीयते प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ……………….।

(ख) अहं किञ्चिदपि न ……………।

(ग) यः हितकामानां सुहृदां वाक्यं न…………………

(घ) एकः कूर्मः अपि तत्रैव ……………।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ………………… ।

(च) वयं गृहं नीत्वा कूर्म ………………………. ।

उत्तरम् –

(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।

(घ) एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।

(च) वयं गृहं नीत्वा कूर्म भक्षयिष्यामः।

पूर्णवाक्येन उत्तरत-

(क) कच्छपः कुत्र गन्तुम् इच्छति?

उत्तरम्- कच्छपः अन्यत्र गन्तुम् इच्छति

(ख) कच्छपः कम् उपायं वदति ?

उत्तरम्- कच्छपः हंसौ उपायं वदति

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?

उत्तरम्- लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन् -“हंहो! महदाश्चर्यं हंसाभ्यां सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

उत्तरम्- कूर्मः मित्रयोः वचनं विस्मृत्य अवदत् -–“यूयं भस्म खादत।”

घटनाक्रमानुसारं वाक्यानि लिखत

(क) कूर्मः हंसयो: सहायतया आकाशमार्गेण अगच्छत्।

(ख) पौरा: अकथयन्-वयं पतितं कूर्म खादिष्यामः।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।

(छ) कूर्म: आकाशात् पतितः पौरैः मारितश्च।

(ज) “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

उत्तरम् –

(क) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

(घ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः हंसयो: सहायतया आकाशमार्गेण अगच्छत्।

(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।

(छ) पौरा: अकथयन्-वयं पतितं कूर्म खादिष्यामः।

(ज) कूर्म: आकाशात् पतितः पौरैः मारितश्च।

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
जलाशयम् अचिन्तयत् वृद्धः दुखिताः कोटरे वृक्षस्य सर्पः आदाय समीपे

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य 1………………………. एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ 2……………………….” काकानां शिशून् खादति स्म। काकाः 3…………….. आसन्। तेषु एक: 4…………………………..: काकः उपायम् 5…………….. वृक्षस्य 6…………. जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7………… आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् 8…………………… एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवका: काकम् अनुसृत्य 9……………. समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्-उपायेन सर्वं सिद्ध्यति।

उत्तरम् –

जलाशयम् अचिन्तयत् वृद्धः दुखिताः कोटरे वृक्षस्य सर्पः आदाय समीपे

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य (1)कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ (2)सर्पः काकानां शिशून् खादति स्म। काकाः (3)दुखिताः आसन्। तेषु एक: (4)वृद्धः काकः उपायम् (5)अचिन्तयत्। वृक्षस्य (6)समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं (7)जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् (8)आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवका: काकम् अनुसृत्य (9)वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्-उपायेन सर्वं सिद्ध्यति।

Class VII Chapter 1